Tuesday 12 August 2014

श्री गणपति-अथर्वशीर्ष

Ganapati Atharvashirsha
हरि ॐ

श्री गणपति-अथर्वशीर्ष 
 
।। अथ श्रीगणपति-अथर्वशीर्षप्रारम्भ: ।।
।। श्रीगणेशाय नम: ।।

ॐ भद्रं कर्णेभि: शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्जजत्रा: ।।
स्थिरैरंगैस्तुष्टुवांसस्तनूभि: । व्यशेम देवहितं यदायु: ।।

ॐ स्वस्ति न इन्द्रो वृध्दश्रवा: । स्वस्ति न: पूषा विश्र्ववेदा: ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शांति: शांति: शांति: ।।

 अथ श्रीगणेशाथर्वशीर्षं व्याख्यास्याम: ।।
ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्ताsसि।
त्वमेव केवलं धर्ताsसि। त्वमेव केवलं हर्ताsसि।
त्वमेव सर्वं खल्विदं ब्रम्हासि। त्वं साक्षादात्माsसि नित्यम् ।।१।।

ऋतं वच्मि । सत्यं वच्मि ।।२।।

अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्र्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ।।३।।

त्वं वाङ्मयस्त्वं चिन्मय: । त्वमानन्दमयस्त्वं ब्रम्ह्मय: ।
त्वं सच्चिदानन्दाद्वितीयोsसि । त्वं प्रत्यक्षं ब्रम्हासि ।
त्वं ज्ञानमयो विज्ञानमयोsसि ।।४।। 

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।  
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोsनलोsनिलो नभ: । त्वं चत्वारि वाक्पदानि ।।५।।

त्वं गुणत्रयातीत:। त्वमवस्थात्रयातीत:। त्वं देहत्रयातीत:।
त्वं कालत्रयातीत:। त्वं मूलाधारस्थितोsसि नित्यम्। 
त्वं शक्तित्रयात्मक:। त्वां योगिनो ध्यायम्ति नित्यम्।
त्वं ब्रम्हा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रम्हभूर्भुव:स्वरोम् ।।६।।

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्। अनुस्वार: परतर:।
अर्धेन्दुलसितम्। तारेण ऋध्दम्।एतत्तव मनुस्वरूपम्।
गकार: पूर्वरूपम्। अकारो मध्यमरूपम्।
अनुस्वार: शान्तिरूपम्। बिन्दुरुत्तररूपम्।
नाद: संधानम्। संहिता संधि:।
सैषा गणेशविद्या। गणक ऋषि:। निचृद्गायत्री छंद:व्
गणपतिर्देवता। ॐ गँ गणपतये नम: ।।७।।

एकदन्ताय विद्महे।वक्रतुण्डाय धीमहि।
तन्नो दन्ति: प्रचोदयात् ।।८।।

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्तांगं रक्तपुष्पै: सुपूजितम्। 
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्टयादौ प्रकृते: पुरुषात्परम्।
एवं ध्यायाति यो नित्यं स योगी योगिनां वर: ।।९।।

नमो व्रातपतये। नमो गणपतये। नम: प्रमथपतये।
नमस्तेsस्तु लंबोदरायैकदन्ताय।
विघ्ननाशिने शिवसुताय। श्रीवरदमूर्तये नमो नम: ।।१०।।

 ॐ सहनाववतु।सह नौ भुनक्तु।सहवीर्यं करवावहै।
तेजस्विनावधीतमस्तु। मा विदविषावहै।
ॐ शान्ति: शान्ति: शान्ति: ।।  

1 comments:

kishor.sonawane03@gmail.com said...

Ambandya

Post a Comment

 
Design by Wordpress Theme | Bloggerized by Free Blogger Templates | free samples without surveys